वांछित मन्त्र चुनें

मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्य॑: । यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ॥

अंग्रेज़ी लिप्यंतरण

mehanād vanaṁkaraṇāl lomabhyas te nakhebhyaḥ | yakṣmaṁ sarvasmād ātmanas tam idaṁ vi vṛhāmi te ||

पद पाठ

मेह॑नात् । व॒न॒म्ऽकर॑णात् । लोम॑ऽभ्यः । ते॒ । न॒खेभ्यः॑ । यक्ष्म॑म् । सर्व॑स्मात् । आ॒त्मनः॑ । तम् । इ॒दम् । वि । वृ॒हा॒मि॒ । ते॒ ॥ १०.१६३.५

ऋग्वेद » मण्डल:10» सूक्त:163» मन्त्र:5 | अष्टक:8» अध्याय:8» वर्ग:21» मन्त्र:5 | मण्डल:10» अनुवाक:12» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) हे रोगी ! तेरे (वनंकरणात्-मेहनात्) वननीय शुक्रसम्पादक मूत्रेन्द्रिय से (लोमभ्यः) लोमस्थानों से-केशस्थानों से (नखेभ्यः) नखस्थानों से (सर्वस्मात्-आत्मनः) सारे शरीर से (तम्-इदम्) तेरे इस रोग को (वि वृहामि) दूर करता हूँ-अलग करता हूँ ॥५॥
भावार्थभाषाः - बालों और नखों के स्थानों से, गुप्तेन्द्रिय से, सारे शरीर से रोगों को दूर करना चाहिये ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते) तव (वनंकरणात्-मेहनात्) वननीयशुक्रसम्पादकान्मेहनस्थानात् गुप्तेन्द्रियात् (लोमभ्यः) लोमस्थानेभ्यः (नखेभ्यः) नखस्थानेभ्यः (सर्वस्मात्-आत्मनः) सर्वस्माच्छरीरात् “आत्मा वै तनूः” [श० ६।७।२।६] (तम्-इदं-विवृहामि) तं रोगं दूरीकरोमि ॥५॥